तनूनपात्

सुधाव्याख्या

तनूं शरीरं न पातयति । 'नभ्राण्नपात्-’ (६.३.७५) इति निपातितः । तनूनपातौ । ‘तनूनपातमुषसस्य’ निंसाते इति मन्त्रः । तनूं स्वं स्वरूपं न पाति न रक्षति आशुविनाशित्वाद् इति तनूनपात् शत्रन्तः । 'उगिदचाम्-’ (७,१.७०) इति नुमि तनूनपात्, तनूनपान्तौ, तनूनपान्तः इति वा । तन्वा ऊनं कृशं पाति । तनूनपं घृतादि, तदत्ति । 'अदोऽनन्ने’ (३.२.६८) इति विट् । तनूनपादौ, तनूनपादः इति वा ।।