जातवेदाः

सुधाव्याख्या

विद्यते लभ्यते । विद्लृ लाभे (तु० उ० अ०) । असुन् (उ० ४.१८९) । जातं वेदो धनं यस्मात् । जाते जाते विद्यते इति वा । 'विद सत्तायाम् (दि० आ० अ०) । जातं वेत्ति वेदयते वा । विद चेतनादौ (अ० प० से०), (रु० आ० अ०) , ण्यन्तः, (चु० आ० से०) । असुन् (उ० ४.१८९) ।


प्रक्रिया

धातुः - विदॢँ लाभे


विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विद् + असुन् - सर्वधातुभ्योऽसुन् (४.१८९) । उणादिसूत्रम् ।
विद् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेदस् - पुगन्तलघूपधस्य च 7.3.86
जात+सु वेदस्+सु - अनेकमन्यपदार्थे 2.2.24
जातवेदस् - सुपो धातुप्रातिपदिकयोः 2.4.71
जातवेदस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जातवेदस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जातवेदास् + स् - अत्वसन्तस्य चाधातोः 6.4.14
जातवेदास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
जातवेदारु - ससजुषो रुः 8.2.66
जातवेदार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जातवेदाः - खरवसानयोर्विसर्जनीयः 8.3.15