धनञ्जयः

सुधाव्याख्या

धनं जयति । ‘संज्ञायां भृतॄ-' (३.२.४६) इति खच् ('धनंजयः सर्पभेदे ककुभे देहमारुते । पार्थेऽग्नौ) ।


प्रक्रिया

धन+अम्+जि+खच् - उपपदमतिङ् 2.2.19
धन जि खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
धन जि अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
धन जे अ - सार्वधातुकार्धधातुकयोः 7.3.84
धन जय् अ - एचोऽयवायावः 6.1.78
धन मुम् जय् अ - अरुर्द्विषदजन्तस्य मुम् 6.3.67
धन म् जय - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
धनंजय - नश्चापदान्तस्य झलि 8.3.24
धनञ्जय - अनुस्वारस्य ययि परसवर्णः 8.4.58
धनञ्जय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धनञ्जय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धनञ्जय + रु - ससजुषो रुः 8.2.66
धनञ्जय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धनञ्जयः - खरवसानयोर्विसर्जनीयः 8.3.15