वीतिहोत्रः

सुधाव्याख्या

‘वी गतिप्रजनकान्त्यसनखादनेषु (अ० प० अ०) । कर्मणि क्तिन् (३.३.९४) । वीतिर्भक्ष्यम् । पुरोडाशाहूयतेऽस्मिन् । 'हु दानादनयोः’ (जु० प० से०) । ‘हुयामा-' (उ० ४.१६८) इति त्रन् । वीतिरश्वो होत्रं हवनमस्येति वा । ('वीतिहोत्रोऽनलेऽर्के च') ।


प्रक्रिया

धातुः - वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु , हु दानादानयोः आदाने प्रीणने च


वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु
वी+क्तिन् - स्त्रियां क्तिन् 3.3.94
वीति - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हु दानादानयोः आदाने प्रीणने च
हु + त्रन् - हुयामाश्रुभसिभ्यस्त्रन् (४.१६८) । उणादिसूत्रम् ।
हु + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
हो + त्र - सार्वधातुकार्धधातुकयोः 7.3.84
वीति + सु होत्र + सु - अनेकमन्यपदार्थे 2.2.24
वीतिहोत्र - सुपो धातुप्रातिपदिकयोः 2.4.71
वीतिहोत्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वीतिहोत्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वीतिहोत्र + रु - ससजुषो रुः 8.2.66
वीतिहोत्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वीतिहोत्रः -खरवसानयोर्विसर्जनीयः 8.3.15