वैश्वानरः

सुधाव्याख्या

विश्वे नरा अस्य । ‘नरे संज्ञायाम्' (६.३.१२९) इति विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण् (४.१.११४) । यत्तु विदादित्वात् (४.१.१०४) अञ् । बहुत्वे च ‘यञञोश्च (२.४.६४) इति लुक् । विश्वानराः—इति मुकुटः । तन्न । 'विश्वे वैश्वानरा उत' इत्यत्र लुकोऽदर्शनात् । ‘वैश्वानराय मीढुषे इत्यादावन्तोदात्तदर्शनाच्च । ऋषिभ्यो गोत्रापत्येऽञो विहितत्वेनान न्तरापत्ये प्रसक्त्यभावाच्च । एतेन विदादित्वात् ४.१.१०४) अञ्-इति वदन् स्वाम्यपि प्रत्युक्तः ।।