नमुचिसूदनः

सुधाव्याख्या

न मुञ्चति । ‘मुच्लृ मोक्षणे' (तु० उ० अ०) । 'इगुपधात्कित्-'(४.१२०) इतीन् । नभ्राण्नपाद्-' (६.३ ७५) इति नञ् प्रकृत्या । नमुचेर्दैत्यस्य सूदनः । ‘षूद क्षरणे । (भ्वा० आ० स०, चु० उ० से०) । नन्द्यादित्वात् (३.१ १३४) । ल्युः ॥


प्रक्रिया

धातुः - मुचॢँ मोक्षणे , षूदँ क्षरणे


मुचॢँ मोक्षणे
मुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुच् + इन् - इगुपधात्कित् (४.१२०) । उणादिसूत्रम् ।
मुच् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नञ् + मुचि + सु - नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 6.3.75
नञ् + मुचि - सुपो धातुप्रातिपदिकयोः 2.4.71
न + मुचि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
षूदँ क्षरणे
षूद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सूद् - धात्वादेः षः सः 6.1.64
सूद् + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सूद् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सूद् + अन - युवोरनाकौ 7.1.1
नमुचि + ङस् + सूदन + सु - षष्ठी 2.2.8
नमुचिसूदन - सुपो धातुप्रातिपदिकयोः 2.4.71
नमुचिसूदन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नमुचिसूदन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नमुचिसूदन + रु - ससजुषो रुः 8.2.66
नमुचिसूदन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नमुचिसूदनः - खरवसानयोर्विसर्जनीयः 8.3.15