स्वाराट्

सुधाव्याख्या

स्वः स्वर्गे राजते । स्वेषु देवेषु, स्वेन धनेन वा, आ राजते वा । 'सत्सू-’ (३.२.६१) इति क्विप् । ‘रो रि’ (८.३.१४) इति लोपे ‘ढ्रलोपे-’ (६.३.१११) इति दीर्घः । जान्तः ।


प्रक्रिया

धातुः - राजृँ दीप्तौ


राज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वर् + ङि + राज् + क्विप् - उपपदमतिङ् 2.2.19, सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
स्वर् + राज् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्वर् + राज् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वर् + राज् - वेरपृक्तस्य 6.1.67
स्व + राज् - रो रि 8.3.14
स्वाराज् - ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111
स्वाराज् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्वाराज् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वाराष् + स् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
स्वाराड् + स् - झलां जशोऽन्ते 8.2.39
स्वाराट् + स् - वाऽवसाने 8.4.56
स्वाराट् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68