वास्तोष्पतिः

सुधाव्याख्या

वास्तोर्गृहक्षेत्रस्य पतिरधिष्ठाता । ‘वास्तोष्पतिर्गृहमेधाच्छ च' (४.२.३२) इति निपातनादलुक् षत्वं चेत्येके । इण: परत्वात् 'कस्कादिषु च ८.३.४८) इति षत्वम् । यत्तु मुकुटः ‘षष्ठ्याः पतिपुत्र-’ (८.३.५३) इति सत्वे इणः परत्वान्मूर्धन्य इति । तन्न । तत्र छन्दोऽधिकारात् । ‘अपदान्तस्य' (८.३.५५) इत्यधिकारात् ॥


प्रक्रिया

वास्तु + ङस् पति + सु - षष्ठी 2.2.8
वास्तु + ङस् पति - सुपो धातुप्रातिपदिकयोः 2.4.71
वास्तु + ङस् पति - द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च 4.2.32 - निपातनात्
वास्तु + अस् पति - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वास्तो + अस् पति - घेर्ङिति 7.3.111
वास्तोस् + पति - षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 8.3.53
वास्तोष्पति - द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च 4.2.32 - निपातनात्
वास्तोष्पति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वास्तोष्पति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वास्तोष्पति + रु - ससजुषो रुः 8.2.66
वास्तोष्पति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वास्तोष्पतिः - खरवसानयोर्विसर्जनीयः 8.3.15