श्रीः

सुधाव्याख्या

श्रयति हरिम् । क्विब्वचि '(वा० ३.२.१७८) इति क्विब्दीर्घौ । यत्तु मुकुटेन ‘संप्रसारणनिषेधश्च' इत्युक्तम् । तच्चिन्त्यम् । श्रयतेस्तदविधानात् । यत्तु–श्रीयते सर्वैः इति विगृहीतम् । तन्न । क्विपः कृत्वेन कर्तरि विधानेन कर्मण्यसम्भवात् । बाहुलकस्य त्वगतिकगतित्वात् । ’लक्ष्मीसरस्वतीधात्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता’ इति व्याडिः | श्रीलक्ष्मीशब्दौ 'कृदिकारात्-'(ग० ४.१.४५) इति डीषन्ताविति मैत्रेयः । तन्न । कारग्रहणस्य तपरत्वार्थस्य वैयर्थ्यप्रसङ्गात् । अन्यथा 'कृदिवर्णात्- 'कृदेः इति वा वदेत् । ‘कारग्रहणान्न’ इति मनोरमाया उणादौ दीक्षिता: ।