विश्वकेतुः

सुधाव्याख्या

विश्वस्मिन् केतुरस्य । 'पताकायां द्युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु’ इति रभसः ।। 'खड्गायुः धोऽनिरुद्धः स्यात्तथा चैवर्श्यकेतनः’ इति साम्बपुराणात् ऋश्यकेतुः अपि । ऋश्यो मृगविशेषः ‘एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः’ इति पुरुषोत्तमात् ।