रामः

सुधाव्याख्या

रमते ।। ज्वलितिकसन्तेभ्यः (३.१.१४०) ' इति णः । रमन्तेऽस्मिन्योगिनः इति वा । हलश्च' (३.३.१२१) इति घञ् । यत्तु रमयति मोदयति प्रजा रूपमस्य इति मुकुटेनोक्तम् । तन्न । णिजन्तस्य ज्वलादित्वाभावात् । प्रत्ययान्तानां धात्वन्तरत्वात् । 'रामा योषा हिङ्गुनद्योः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे । हये च पशुभेदे च त्रिषु चारौ सितेऽसिते’) ॥