अमरकोशः


श्लोकः

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ककुद ककुदः पुंलिङ्गः, नपुंसकलिङ्गः कं सुखं कौति क्विप् कृत् अकारान्तः
2 संविद् संविद् स्त्रीलिङ्गः संवेदनम्। संविद्यतेऽनया वा क्विप् कृत् दकारान्तः