अमरकोशः


श्लोकः

स्यात्प्रसादोऽनुरोधेऽपि सूदः स्याद्वयञ्जने त्रिषु । गोष्ठाध्यक्षेऽपि गोविन्दः हर्षेऽप्यामोदयन्मदः ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रसाद प्रसादः पुंलिङ्गः प्रसदनम्। अनेन वा घञ् कृत् अकारान्तः
2 सूद सूदः पुंलिङ्गः सूद्यते। सूदयति वा अच् कृत् अकारान्तः
3 गोविन्द गोविन्दः पुंलिङ्गः गां विन्दति कृत् अकारान्तः
4 आमोद आमोदः पुंलिङ्गः आमोदनम्।आमोदयति वा घञ् कृत् अकारान्तः
5 मद मदः पुंलिङ्गः मदनम्।अनेन वा अप् कृत् अकारान्तः