अमरकोशः


श्लोकः

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः । आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्वाद निर्वादः पुंलिङ्गः निर्वदनम् घञ् कृत् अकारान्तः
2 शाद शादः पुंलिङ्गः शद्यते अनेन वा घञ् कृत् अकारान्तः
3 आक्रन्द आक्रन्दः पुंलिङ्गः आक्रन्दनम्। आक्रन्दति। आक्रन्द्यतेऽस्मिन्। आक्रन्दयति वा घञ् कृत् अकारान्तः