अमरकोशः


श्लोकः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युः द्वौ तु शारदौ । प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्द मन्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मन्दते अच् कृत् अकारान्तः
2 शारद शारदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शरदि भवः अण् कृत् अकारान्तः
3 विशारद विशारदः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विशिष्टो विपरीतो वा शारदः तत्पुरुषः समासः अकारान्तः