अमरकोशः


श्लोकः

ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतीत प्रतीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतीयते स्म क्त कृत् अकारान्तः
2 अभिजात अभिजातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिजायते स्म क्त कृत् अकारान्तः
3 विविक्त विविक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विविज्यते स्म क्त कृत् अकारान्तः
4 मूर्च्छित मूर्च्छितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्छति स्म क्त कृत् अकारान्तः