अमरकोशः


श्लोकः

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायति: । पत्तिर्गतौ च मूले तु पक्षति: पक्षभेदयोः ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पङ्क्ति पङ्क्तिः स्त्रीलिङ्गः पञ्चनम् क्तिन् कृत् इकारान्तः
2 आयति आयतिः स्त्रीलिङ्गः आयम्येऽनया।आयमनंवा क्तिन् कृत् इकारान्तः
3 पत्ति पत्तिः स्त्रीलिङ्गः पतति क्तिच् कृत् इकारान्तः
4 पक्षति पक्षतिः स्त्रीलिङ्गः पक्षस्य मूलम् ति तद्धितः इकारान्तः