अमरकोशः


श्लोकः

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते । कलधौतं रूप्यहेम्नोः निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वार्त वार्तम् नपुंसकलिङ्गः अकारान्तः
2 घृत घृतम् नपुंसकलिङ्गः घ्रियते।जिघर्ति वा क्त कृत् अकारान्तः
3 अमृत अमृतम् नपुंसकलिङ्गः न मृतं मरणमत्र बहुव्रीहिः समासः अकारान्तः
4 कलधौत कलधौतम् नपुंसकलिङ्गः कलोमलोधौतोऽस्य बहुव्रीहिः समासः अकारान्तः
5 निमित्त निमित्तम् नपुंसकलिङ्गः निमेद्यति क्त कृत् अकारान्तः