अमरकोशः


श्लोकः

किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः । प्रतिकूले प्रतीकस्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किष्कु किष्कुः पुंलिङ्गः कायतेऽनेन कु उणादिः उकारान्तः
2 वृश्चिक वृश्चिकः पुंलिङ्गः वृश्चति किश्चन् उणादिः अकारान्तः
3 प्रतीक प्रतीकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतिगता ई लक्ष्मीर्येन यं वा कप् तद्धितः अकारान्तः