अमरकोशः


श्लोकः

यानपात्रे शिशौ पोत: प्रेत: प्राण्यन्तरे मृते । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पोत पोतः पुंलिङ्गः पुनाति। पूयते वा तन् उणादिः अकारान्तः
2 प्रेत प्रेतः पुंलिङ्गः प्रकर्षेणेतः तत्पुरुषः समासः अकारान्तः
3 केतु केतुः पुंलिङ्गः चाय्यते अनेन वा तु उणादिः उकारान्तः
4 सुत सुतः पुंलिङ्गः सूयते स्म, सौतिस्मवा क्त कृत् अकारान्तः