अमरकोशः


श्लोकः

उदयेऽधिगमे प्राप्तिः त्रेता त्वग्नित्रये युगे । वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्राप्ति प्राप्तिः स्त्रीलिङ्गः प्रापणम् क्तिन् कृत् इकारान्तः
2 त्रेता त्रेता स्त्रीलिङ्गः त्रीन्भेदानिता आकारान्तः
3 महत् महत् स्त्रीलिङ्गः मह्यते अति उणादिः तकारान्तः
4 भूति भूतिः स्त्रीलिङ्गः भवति।अनया वा, भवनं वा क्तिच् कृत् इकारान्तः