अमरकोशः


श्लोकः

कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । कासूसामर्थ्ययोः शक्तिः मूर्ति: काठिन्यकाययोः ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुद्धान्त शुद्धान्तः पुंलिङ्गः शुद्धोऽन्तोऽस्य बहुव्रीहिः समासः अकारान्तः
2 शक्ति शक्तिः स्त्रीलिङ्गः शक्यतेऽनया क्तिन् कृत् इकारान्तः
3 मूर्ति मूर्तिः स्त्रीलिङ्गः मूर्छ्यते क्तिन् कृत् इकारान्तः