अमरकोशः


श्लोकः

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च । विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शरण शरणम् नपुंसकलिङ्गः शृणाति ल्युट् कृत् अकारान्तः
2 श्रीपर्ण श्रीपर्णम् नपुंसकलिङ्गः श्रीः पर्णेऽस्य बहुव्रीहिः समासः अकारान्तः
3 तीक्ष्ण तीक्ष्णम् नपुंसकलिङ्गः तेजयति कस्न उणादिः अकारान्तः