अमरकोशः


श्लोकः

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी । करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विपणि विपणिः स्त्रीलिङ्गः विपण्यते।अस्यांवा इन् उणादिः इकारान्तः
2 वारुणी वारुणी स्त्रीलिङ्गः वरुणस्येयम् अण् तद्धितः ईकारान्तः
3 करेणु करेणुः स्त्रीलिङ्गः करोति एणु उणादिः उकारान्तः
4 द्रविण द्रविणम् नपुंसकलिङ्गः द्रूयते, द्रवति वा इनन् उणादिः अकारान्तः