अमरकोशः


श्लोकः

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः । तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हरिण हरिणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हरति इनच् उणादिः अकारान्तः
2 स्थूणा स्थूणा स्त्रीलिङ्गः तिष्ठति उणादिः आकारान्तः
3 तृष्णा तृष्णा स्त्रीलिङ्गः तर्षणम् उणादिः आकारान्तः
4 घृणा घृणा स्त्रीलिङ्गः घर्णनम् अङ् कृत् आकारान्तः