अमरकोशः


श्लोकः

क्ष्वेडा वंशशलाकापि नाडी नालेऽपि षट्क्षणे । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्ष्वेडा क्ष्वेडा स्त्रीलिङ्गः क्ष्वेलति अच् कृत् आकारान्तः
2 नाडी नाडी स्त्रीलिङ्गः नालयति अच् कृत् ईकारान्तः
3 काण्ड काण्डः पुंलिङ्गः, नपुंसकलिङ्गः कनति उणादिः अकारान्तः