अमरकोशः


श्लोकः

धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । बलजे क्षेत्रपूर्द्वारे बलजा वल्गुदर्शना ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धर्मराज धर्मराजः पुंलिङ्गः धर्मेण राजति अच् कृत् अकारान्तः
2 कुञ्ज कुञ्जः पुंलिङ्गः कौ जायते कृत् अकारान्तः
3 वलज वलजः पुंलिङ्गः बले जातम् कृत् अकारान्तः
4 वलजा वलजा स्त्रीलिङ्गः आकारान्तः