अमरकोशः


श्लोकः

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा । व्युष्टि: फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कोटि कोटिः स्त्रीलिङ्गः कोट्यते उणादिः इकारान्तः
2 जटा जटा स्त्रीलिङ्गः जटति अच् कृत् आकारान्तः
3 व्युष्टि व्युष्टिः स्त्रीलिङ्गः व्युच्छनम् । व्युच्छ्यते वा क्तिन् कृत् इकारान्तः
4 दृष्टि दृष्टिः स्त्रीलिङ्गः दर्शनम् क्तिन् कृत् इकारान्तः