अमरकोशः


श्लोकः

दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः । व्यूहो वृन्देऽप्यहिवृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ॥ २३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गृहा गृहा पुंलिङ्गः गृह्णाति धान्यादिकमिति कृत् आकारान्तः
2 आरोह आरोहः पुंलिङ्गः आरुह्यते । आरोहणम् । आरोहति वा घञ् कृत् अकारान्तः
3 व्यूह व्यूहः पुंलिङ्गः व्यूहते कृत् अकारान्तः
4 अहि अहिः पुंलिङ्गः आहन्ति इण् उणादिः इकारान्तः
5 तमोपह तमोपहः पुंलिङ्गः तमोऽपहन्ति कृत् अकारान्तः