अमरकोशः


श्लोकः

वृद्धप्रशस्ययोर्ज्यायान् कनीयांस्तु युवाल्पयोः । वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ २३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्यायस् ज्यायस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन वृद्ध: प्रशस्यो वा ईयसुन् तद्धितः सकारान्तः
2 कनीयस् कनीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयितो युवाल्पो वा ईयसुन् तद्धितः सकारान्तः
3 वरीयस् वरीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयित ऊरुर्वरो वा ईयसुन् तद्धितः सकारान्तः
4 साधीयस् साधीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयितः साधुर्बाढो वा ईयसुन् तद्धितः सकारान्तः