अमरकोशः


श्लोकः

छन्दः पद्येऽभिलाषे च तपः कृच्छादिकर्म च । सहो बलं सहा मार्गः नभ: खं श्रावणो नभाः ॥ २३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 छन्दस् छन्दस् नपुंसकलिङ्गः चन्दनम् । चन्द्यतेऽनेन वा असुन् उणादिः सकारान्तः
2 तपस् तपस् नपुंसकलिङ्गः तपनम् । तप्यते । अनेन वा असुन् उणादिः सकारान्तः
3 सहस् सहस् पुंलिङ्गः, नपुंसकलिङ्गः सहते । सह्यते, अनेन, अत्र वा असुन् उणादिः सकारान्तः
4 नभस् नभस् पुंलिङ्गः, नपुंसकलिङ्गः नभनम् । नभ्यते, अनेन, अत्र वा असुन् उणादिः सकारान्तः