अमरकोशः


श्लोकः

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः । प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्विष् त्विष् स्त्रीलिङ्गः त्वेषणम् । अनया वा क्विप् कृत् षकारान्तः
2 न्यक्ष न्यक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नियतानि निकृतानि वा अक्षाणि यस्मिन् यस्य वा बहुव्रीहिः समासः अकारान्तः
3 अध्यक्ष अध्यक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधिगतोऽक्षम् अच् कृत् अकारान्तः
4 रूक्ष रूक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रूक्षयति अच् कृत् अकारान्तः