अमरकोशः


श्लोकः

स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्ष वर्षः पुंलिङ्गः, नपुंसकलिङ्गः वर्षणम् अच् कृत् अकारान्तः
2 प्रेक्षा प्रेक्षा स्त्रीलिङ्गः प्रेक्षणम् । अनया वा कृत् आकारान्तः
3 भिक्षा भिक्षा स्त्रीलिङ्गः भिक्षणम् । भिक्ष्यते वा कृत् आकारान्तः