अमरकोशः


श्लोकः

प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः । सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ २१८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रकाश प्रकाशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकाशते । प्रकाशनं वा अच् कृत् अकारान्तः
2 बालिश बालिशः पुंलिङ्गः वालिं श्यति कृत् अकारान्तः
3 अनिमिष अनिमिषः पुंलिङ्गः न निमिषति कृत् अकारान्तः
4 पुरुष पुरुषः पुंलिङ्गः अकारान्तः