अमरकोशः


श्लोकः

वशा स्त्री करिणी च स्याद् दृग् ज्ञाने ज्ञातरि त्रिषु । स्यात्कर्कशः साहसिक: कठोरामसृणावपि ॥ २१७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वशा वशा स्त्रीलिङ्गः वष्टि अच् कृत् आकारान्तः
2 दृश् दृश् स्त्रीलिङ्गः पश्यति क्विप् कृत् शकारान्तः
3 कर्कश कर्कशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृणाति विच् कृत् अकारान्तः