अमरकोशः


श्लोकः

रह:प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः । कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीकाश वीकाशः पुंलिङ्गः विकाशनम् । अस्मिन् वा घञ् कृत् अकारान्तः
2 निर्वेश निर्वेशः पुंलिङ्गः निर्विश्यते । निर्वेशनं च घञ् कृत् अकारान्तः
3 कीनाश कीनाशः पुंलिङ्गः की कुत्सितं नाशयति अच् कृत् अकारान्तः