अमरकोशः


श्लोकः

द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ । द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ २१४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विश् विश् पुंलिङ्गः विशति क्विप् कृत् शकारान्तः
2 स्पश स्पशः पुंलिङ्गः स्पशति अच् कृत् अकारान्तः
3 राशि राशिः पुंलिङ्गः रश्यते, रशति वा इण् उणादिः इकारान्तः
4 वंश वंशः पुंलिङ्गः वमति, वम्यते वा शक् अकारान्तः