अमरकोशः


श्लोकः

स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च । शिवा गौरीफेरवयोः द्वन्द्वं कलहयुग्मयो: ॥ २१२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नीवी नीवी स्त्रीलिङ्गः निव्ययति, निवीयते वा इण् कृत् ईकारान्तः
2 शिवा शिवा स्त्रीलिङ्गः शिवमस्त्यस्याः अच् कृत् आकारान्तः
3 द्वन्द्व द्वन्द्वम् नपुंसकलिङ्गः द्वौ द्वौ निपातनात् अकारान्तः