अमरकोशः


श्लोकः

उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः । अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्सव उत्सवः पुंलिङ्गः उत्सेक उद्रेकः अप् कृत् अकारान्तः
2 अनुभाव अनुभावः पुंलिङ्गः अनुगतो भावः घञ् कृत् अकारान्तः