अमरकोशः


श्लोकः

स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने । अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥ २०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रसव प्रसवः पुंलिङ्गः प्रसवनम्, प्रसूयते वा अप् कृत् अकारान्तः
2 निह्नव निह्नवः पुंलिङ्गः निह्नवनम् अप् कृत् अकारान्तः