अमरकोशः


श्लोकः

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः । भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवि अविः पुंलिङ्गः अवति, अव्यते वा इन् उणादिः इकारान्तः
2 हव हवः पुंलिङ्गः ह्व कृत् अकारान्तः
3 भाव भावः पुंलिङ्गः भावयति अच् कृत् अकारान्तः