अमरकोशः


श्लोकः

दवदावौ वनारण्यवह्नी जन्महरौ भवौ । मन्त्री सहायसचिवौ पतिशाखिनरा धवाः ॥ २०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दव दवः पुंलिङ्गः दुनोति, दवति वा अच् कृत् अकारान्तः
2 दाव दावः पुंलिङ्गः दुनोति, दवति वा कृत् अकारान्तः
3 भव भवः पुंलिङ्गः भवति अच् कृत् अकारान्तः
4 सचिव सचिवः पुंलिङ्गः सचनम् इन् उणादिः अकारान्तः
5 धव धवः पुंलिङ्गः धवति, धुवति, धूनोति, धुनाति वा अच् कृत् अकारान्तः