अमरकोशः


श्लोकः

करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशल: । मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कराल करालः पुंलिङ्गः करेणालाति कृत् अकारान्तः
2 पेशल पेशलः पुंलिङ्गः पेशं लाति उणादिः अकारान्तः
3 बाल बालः पुंलिङ्गः बलति कृत् अकारान्तः
4 लोल लोलः पुंलिङ्गः लोडति अच् कृत् अकारान्तः