अमरकोशः


श्लोकः

अध:स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् । और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ॥ २०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तल तलः पुंलिङ्गः, नपुंसकलिङ्गः तलति अच् कृत् अकारान्तः
2 पल पलम् नपुंसकलिङ्गः पलति अच् कृत् अकारान्तः
3 पाताल पातालम् नपुंसकलिङ्गः पतति, अत्र वा आलञ् उणादिः अकारान्तः
4 चैल चैलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चिलति । चिल्यते वा अच् कृत् अकारान्तः