अमरकोशः


श्लोकः

शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः । भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शृङ्ग शृङ्गम् नपुंसकलिङ्गः शृणाति गन् उणादिः अकारान्तः
2 वराङ्ग वराङ्गम् नपुंसकलिङ्गः वरं च तदङ्गं च तत्पुरुषः समासः अकारान्तः
3 भग भगम् नपुंसकलिङ्गः भज्यते कृत् अकारान्तः