अमरकोशः


श्लोकः

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् । स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊररी ऊररी अव्ययम् ऊयते ररीक् उणादिः ईकारान्तः
2 ऊरी ऊरी अव्ययम् ऊयते रीक् उणादिः ईकारान्तः
3 उररी उररी अव्ययम् ईकारान्तः
4 स्वर् स्वर् अव्ययम् स्वरति विच् कृत् रेफान्तः
5 किल किलः अव्ययम् किलति कृत् अकारान्तः