अमरकोशः


श्लोकः

प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुरस्तात् पुरस्तात् अव्ययम् पूर्वस्मिन् अस्ताति तद्धितः तकारान्तः
2 यावत् यावत् अव्ययम् यत्, तत्, परिमाणमस्य डावतु तद्धितः तकारान्तः
3 अग्रतस् अग्रतस् अव्ययम् सकारान्तः