अमरकोशः


श्लोकः

प्रतीच्यां चरमे पश्चातुताप्यर्थविकल्पयोः । पुनः सहार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः॥ २४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पश्चात् पश्चात् अव्ययम् अवरस्मिन् निपातनात् तकारान्तः
2 उत उतः अव्ययम् ऊयते स्म क्त कृत् अकारान्तः
3 शश्वत् शश्वत् अव्ययम् शशति वत् उणादिः तकारान्तः
4 साक्षात् साक्षात् अव्ययम् सहाक्षेण साक्षः । तमतति क्विप् कृत् तकारान्तः