अमरकोशः


श्लोकः

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवंगमौ । इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रश्मि रश्मिः पुंलिङ्गः अश्नुते।अनेन वा मि उणादिः इकारान्तः
2 प्लवङ्गम प्लवङ्गमः पुंलिङ्गः प्लवेन प्लुत्यागच्छति खच् कृत् अकारान्तः
3 काम कामः पुंलिङ्गः कमनम्।कम्यते वा घञ् कृत् अकारान्तः
4 पराक्रम पराक्रमः पुंलिङ्गः पराक्रमणम्।अनेन वा घञ् कृत् अकारान्तः