अमरकोशः


श्लोकः

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ । कुक्षिभूणार्भका गर्भा विस्रम्भ: प्रणयेऽपि च ॥ १३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्तम्भ स्तम्भः पुंलिङ्गः स्तभ्नाति अच् कृत् अकारान्तः
2 शम्भु शम्भुः पुंलिङ्गः शं भवति डु कृत् उकारान्तः
3 गर्भ गर्भः पुंलिङ्गः गिरति, गृणाति। गीर्यते वा भन् उणादिः अकारान्तः
4 विस्रम्भ विस्रम्भः पुंलिङ्गः विस्रम्भणम्। विस्रभ्यतेऽनेन वा घञ् कृत् अकारान्तः